भक्तामर स्त्रोत (आचार्य श्री मानतुंग)

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुघोतकं दलित-पाप-तमो-वितानम्।
सम्यक्-प्रणम्य जिन-पाद-युगं  युगादा-
वालम्बनं भव-जले पततां   जनानाम् ||1||
यः संस्तुतः सकल-वाड्मय-तत्व-बोधा-
दुद् भूत-बुद्धि-पटुभिः सुर-लोक-नाथेः |
स्तोत्रैर्जगत् त्रितय-चित-हरैरुदारेः
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रनम् ||2||
बुद्धया विनापि विबुधार्चित-पाद-पीठ
स्तोतुं समुधत-मतिर्विगत-त्रपोऽहम् |
बालं विहाय जल-संस्थितमिन्दु-विम्ब-
मन्यः क इच्छति जनः सहसा ग्रहितुम् ||3||
वक्तुं गुणान्गुण-समुद्र शशाड्क-कान्तान्
कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्धया|
कल्पान्त-काल-पवनोद्ध-नक्र-चक्रं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ||4||     
सोऽहं तथापि तव भक्ति-वशान्मुनीश
कतुं स्तवं विगत-शक्तिरपि प्रवृत्तः|
प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रं
नाभ्येति किं निज-शिशोः परिपालनार्थम् ||5||
अल्प-श्रुतं श्रुतंवतां परिहास-धाम
त्वद् भक्तिरेव मुखरीकुरुते बलान्माम् |
यत्कोकिलः किल मधौ मधुरं विरौति
तच्चाम्र-चारु-कलिका-निकरैक-हेतुः||6||
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं
पापं क्षणात्क्षयमुपैति शरीरभाजाम् |
आक्रान्त-लोकमति-नीलमशेषमाशु
सूर्याशु-भिन्नमिव शार्वरमन्धकारम् ||7||
मत्वेति नाथ तव संस्तवनं मयेद-
मारभ्यते तनु-धियापि तव प्रभावात् |
चेतो हरिष्यति सतां नलिनी-दलेषु
मुक्ता-फलधुतिमुपैति ननूद-बिन्दुः ||8||
आस्तां तव स्तवनमस्त-समस्त-दोषं
त्वत्सड्कतथाऽपि जगतां दुरितानि हन्ति|
दूरे सहस्र किरणः कुरुते प्रभैव
पध्माकरेषु जलजानि विकासभाज्जि||9||
नात्यद् भुतं भुवन-भूषण भूत-नाथ!
भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः|
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति||10||
द्रष्ट् वा भवन्तमनिमेष-विलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः|
पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः
क्षारं जलं जल-निधे रसितुं कः इच्छेत् ||11||
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्व्
निर्मापितस्त्रिभुवनैक-ललाम-भूत|
तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत्ते समानमपरं न हि रुपमस्ति|12|                 
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि
निःशेष-निर्जित-जगत्त्रितयोपमानम्|
बिम्बं कलंक-मलिनं क्व निशाकरस्य
यद्वासरे भवति पाण्डु-पलाशकल्पम्|13|
सम्पूर्ण-मण्डल-शशांक-कला-कलाप-
शुभ्रा गुणास्त्रिभुवनं तव लगंघयन्ति|
ये संश्रितास्त्रिजगदीश्वर-नाथमेकं
कस्तान्निवारयति संचरतो यथेष्टम्|14|
चित्रं किमत्र यदि ते त्रिदशागंगनाभि-
र्नीतं मनागपि मनो न विकार-मार्गम्|
कल्पान्त-काल-मरुता चलिताचलेन
किं मन्दराद्रि-शिखरं चलितं कदाचित्|15|
निर्धूम-वर्तिरपवर्जित-तैल-पूरः
क्रत्स्नं जगत्त्रयमिदं प्रकटी-करोषि|
गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः|16|
नास्तं कदाचिदुपयासि न राहु-गम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति|
नाम्भोधरोदर निरुद्ध-महा-प्रभावः
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके|17|
नित्योदयं दलित-मोह-महान्धकारं
गम्यं न राहु-वदनस्य न वारिदानाम्|
विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्व-शशांक-बिम्बम्|18|
किं शर्वरीषु शशिनाऽह्रि विवस्वता वा
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ|
निष्पन्न-शालि-वन-शालिनि जीव-लोके
कार्यं कियज्जलधरैर्जल-भार-नम्रैः|19|
ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु |
तेजः स्फुरन्मणिषु याति यथा महत्वं
नैवं तु काच-शकले किरणाकुलेऽपि|20|
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु ह्रदयं त्मयि तोषमेति|
किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरित नाथ!भवान्तरेऽपि|21|
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता|
सर्वा दिशो दधति भानि सहस्र-रश्मिं
प्राच्येव दिग्जनयति स्फुरदंशुजालम्|22|
त्वामामनन्ति मुनयः परमं पुमांस-
मादित्य-वर्णममलं तमसः पुरस्तात्|
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं
नान्यः शिव: शिवपदस्य मुनीन्द्र पन्थाः |23|
त्वामव्ययं विभुमचिन्त्यमसंख्यामाद्यं
ब्रह्माणमीश्वरमनन्तमनगंकेतुम्|
योगीश्वरं विदितयोगनेकमेकं
ज्ञानस्वरुपममलं प्रवदन्ति सन्तः|24|
बुद्घस्त्वमेव विबुधार्चित-बुध्दि-बोधात्
त्वं शकंरोऽसि भुवन-त्रय-शकंरत्वात्|
धातासि धीर! शिव-मार्ग-विधेर्विधानात्
व्यक्तं त्वमेव भगवन्तुरुषोत्तमोऽसि |25|
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ!
तुभ्यं नमः क्षितितलामलभूषणाय|
तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन! भवोदधि-शोषणाय|26|
को विस्मयोऽत्र यदि नाम गुणैरशेषै-
स्त्वं संश्रितो निरवकाशतया मुनीश|
दोषैरुपात्तविविधाशश्रय-जात-गर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि|27|
उच्चैरशोक-तरु-संश्रितमुन्मयूख-
माभाति रुपममलं भवतो नितान्तम्|
स्पष्टोल्लसत्किरणमस्त-तमो-वितानं
बिम्बं रवेरिव पयोधर-पाश्र्र्ववर्ति |28|
सिंहासने मणि-मयूख-शिखा-विचित्रे
विभ्राजते तव वपुः कनकावदातम्|
बिम्बं वियद् विलसदंशुलता-वितानं
तुगोंदयाद्रिशिरसीव सहस्र-रश्मेः |29|
कुन्दावदात-चल-चामर-चारु-शोभं
विभ्राजते तव वपुः कलधोत-कान्तम्|
उद्यच्छशागं-शुचि-निर्झर-वारि-धार
मुच्चैस्तटं सुरगिरेरिव शांतकोम्भम्|30|
छत्र-त्रयं तव विभाति शशागं-कान्त-
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम्|
मुक्ता-फल-प्रकर-जाल-विवृद्घशोभं
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् |31|
गम्भीर-तार-रव-पूरित-दिग्विभाग-
स्त्रैलोक्य-लोक-शुभ-सगंमभूतिदक्षः|
सद्धर्मराज जय-घोषण-घोषकः सन्
खे दुन्दुभिध्र्वनति ते यशसः प्रवादी|32|
मन्दार-सुन्दर-नमेरु-सुपारिजात-
सन्तानकदि-कुसुमोत्कर-वृष्टिरुद्धा|
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता
दिव्या दिवः पतति ते वचसां ततिर्वा|33|
शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति|
प्रोद्यद्दिवाकर-निरन्तर-भूरि-संख्या
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम्|34|
स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्टः
सद्धर्म-तत्व-कथनैक-पटुस्त्रिलोक्याः|
दिव्यःध्वनिर्भवति ते विशदार्थ-सर्व-
भाषा-स्वभाव-परिणाम-गुणैःप्रायोज्यः|35|
उन्निद्र-हेम-नव-पंकज-पुञ्ज-कान्ती
पर्युल्लसन्नख-मयूख-शिखाभिरामौ|
पादौ पदानि तव यत्र जिनेन्द्र! धत्तः
पद्मानि तत्र विबुधाः परिकल्पयन्ति|36|
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र
धर्मोपदेशन-विधौ-न तथा परस्य|
यादृक्प्रभा दिनकृतः प्रहतान्धकारा
तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि|37|
शच्योतन्मदाविल-विलोल-कपोल-मूल-
मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम् |
एरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम्|38|
भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त-
मुक्ता-फल-प्रकर-भूषित-भूमि-भागः|
बद्ध-क्रमः क्रम-गतं हरिणाधिऽपोपि
नाक्रामति क्रम-युगाचल-संश्रितं ते|39|
कल्पान्त-काल-पवनोद्धत-वह्रि-कल्पं
दावानलं ज्वलितमुज्ज्वमुत्स्फुलिगंम्|
विश्व जिघित्सुमिव संमुखमापतन्तं
त्वन्नाम-कीर्तन-जलं शमयत्यशेषम्|40|
रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम्|
आक्रामति क्रम-युगेण निरस्त-शखं-
स्त्वन्नाम-नाग-दमनी ह्रदि यस्य पुंसः|41|
वल्गत्तुरंग-गज-गर्जित-भीमनाद-
माजौ बलं बलवतामपि भूपतीनाम्|
उद्यद्दिवाकर-मयूख-शिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति|42|
कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह-
वेगावतार - तरणातुर - योध - भीमे|
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
त्वत्पाद-पंकज-वनाश्रयिणो लभन्ते |43|
अम्भोनिधौक्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ|
रंगतरंग-शिखर-स्थित-यान-पात्रास्-
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति |44|
उद् भूत-भीषण-जलोदर-भार-भुग्नाः
शोच्यां दशामुपगताश्च्युत-जीविताशाः|
त्वत्पाद-पंकज-रजोऽमृत-दिग्ध-देहा
मर्त्या भवन्ति मकरध्वज-तुल्यरुपाः|45|
आपाद-कण्ठमुरु-श्रंखल-वेष्टितागंगा
गाढं बृहन्निगड-कोटि-निधृष्ट-जंगघाः|
त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगत-बन्ध-भया भवन्ति|46|
मत्तद्विपेन्द्र-म्रगराज-दवानलाहि-
संग्राम वारिधि-मनोदर-बन्धनोत्थम्|
तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते|47|
स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां
भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्|
धत्ते जनो य इह कण्ठ-गतामजस्रं
तं 'मानतुंगमवशा' समुपैति लक्ष्मीः|48|

इति श्री मानत्तुंगाचार्य विरचित आदिनाथ स्तोत्रं समाप्तम्|